Odisha State Board CHSE Odisha Class 11 Sanskrit Solutions Grammar अनुच्छेदभागः Textbook Exercise Questions and Answers.
CHSE Odisha Class 11 Sanskrit Grammar अनुच्छेदभागः
अनुच्छेद – १
एकदा कश्चिद् राजा मृगयां कर्तुं वनं प्रविष्टः । अपराह्णे यावद् वने न किमपि सत्त्वम् आसादितवान् । विफलमनोरथः सन् यदा स प्रत्यावर्तते तदा मार्गे एकस्माद् वृक्षकोटरात् शुकशावकद्वयं प्राप्य स सन्तुष्टः । एकं शावकं कस्मैचिद् आचार्याय अन्यं कस्मैचिद् व्याधाय च पोषणार्थं स दत्तवान् । एवं षण्मासाः व्यतीताः । ततः स शावकद्वयं द्रष्टुं गतवान् । आचार्यभवने पालितः शुकः गुरुकुलानुरूपं वचनानि अभ्यस्तवान् । सः अतिथिं दृष्ट्वा मधुरैः वचनैः स्वागतं निवेदितवान् । व्याधगृहे वर्धितः शुकः कटुभिः अपशब्दैः सम्बोधनं कृतवान् । एवं शुकयोः पृथग् व्यवहारेण नृपतिः विस्मयाविष्टः अभवत् । सुष्टु बक्तुं शक्यते –
प्रभावः परिवेशस्य परिवारे हि जायते ।
संक्षेपेण उत्तरं लिखत –
(क) राजा किमर्थं कुत्र प्रविष्टः ?
Answer:
ରାଜା ମୃଗୟାଂ କର୍ତ୍ତୁ ବନଂ ପ୍ରବିଷ୍ଟ ।
(ख) राजा कियन्तं कालं यावद् वने भ्रमति स्म ?
Answer:
ରାଜା ଅପରାହ୍ଣ ଯାବଦ୍ ବନେ ଭ୍ରମତି ସ୍ମ ।
(ग) राजा शुकशावकद्वयं केन प्रकारेण प्राप्तवान् ?
Answer:
ବିଫଳମନୋରଥ ସନ୍ ରାଜା ଯଦା ପ୍ରତ୍ୟାବର୍ତତେ ତଦା ମାର୍ଗେ ଏକସ୍ମାଦ୍ ବୃକ୍ଷକୋଟରାତ୍ ଶୁକଶାବକଦ୍ବୟଂ ପ୍ରାପ୍ତବାନ୍ ।
(घ) नृपतिः शुकशावकद्वयं नीत्वा किं कृतवान् ?
Answer:
ନୃପତିଃ ଶୁକଶାବକଦ୍ବୟଂ ନୀତ୍ଵା, ଏବଂ ଶାବକଂ କନ୍ମୋଚିଦ୍ ଆଚାର୍ଯ୍ୟାୟ ଅନ୍ୟ କମ୍ପେଚିଦ୍ ବ୍ୟାଧ୍ୟାୟ ଚ ପୋଷଣାର୍ଥୀ ଦଉବାନ୍ ।
(ङ) राजा कुंदा शुकशावकद्वयं द्रष्टुं गतवान् ?
Answer:
ରାଜା ଷଣ୍ଢାମାସାଦନନ୍ତରଂ ଶୁକଶାବକଦ୍ବୟଂ ଦ୍ରୁଷ୍ଟୀ ଗତବାନ୍ ।
(च) आचार्यभवने शुकशावकः कीदृशं व्यवहारं प्रदर्शितवान् ?
Answer:
ଆଚାର୍ଯ୍ଯଭବନେ ପାଳିତଃ ଶୁକଶାବକଃ ଗୁରୁକୁଳାନୁରୂପଂ ବଚନାନି ଅଭ୍ୟସ୍ତବାନ୍ । ଡଃ ଅତିଥ୍ୟ ଦୃଷ୍ଟା ମଧୁରଃ ବଚନିଃ ସ୍ଵାଗତଂ ନିବେଦିତବାନ୍ ।
(छ) व्याधगृहे शुंकशावकस्य व्यवहारः कीदृशः आसीत् ?
Answer:
ବ୍ୟାଧଗୃହେ ବର୍ଧ ଶୁକଶାବତଃ କଟୁତିଃ ଅପଶବୈ ସମ୍ବୋଧନଂ କୃତବାନ୍ ।
(ज) राज्ञः विस्मयस्य कारणं किमासीत् ?
Answer:
ଉଭୟୋ ଶୁକଶାବକୟୋ ପୃଥଗ୍ ବ୍ୟବହାରେଣ ନୃପତିଃ ବିସ୍ମୟାବିଷ୍ଟ୍ୟ ଅଭବତ୍ ।
(झ) अस्मात् विषयात् का नीतिशिक्षा प्राप्यते ?
Answer:
ଅସ୍ମାତ୍ ବିଷୟାତ୍ ନୀତିଶିକ୍ଷା ପ୍ରାପ୍ୟତେ ଯତ୍ – ‘ପ୍ରଭାବ ପରିବେଶସ୍ୟ ପରିବାରେ ହି ଜାୟତେ ।”
अनुच्छेद – २
एकदा किष्किन्धापतिः सुग्रीवः सीतान्वेषणाय स्वस्य सेनाप्रमुखान् दशसु दिक्षु प्रेषितवान् । जाम्बवान् हनुमान् च दक्षिणस्यां दिशि प्रेषितौ । तौ गत्वा दृष्टवन्तौ यत् लङ्कापुरी वहुयोजनदूरे अस्ति । मध्ये विशालः सागरः अन्तरायः । कथं स सागरः लंघनीयः ? हनुमान् एतेन प्रश्नेन हताशः जातः । तस्य स्वसामर्थ्य प्रति विश्वासः न अभवत् । सः किं कर्तव्यम् इति विचिन्त्य विमूढः आसीत् ।
अभिज्ञः जाम्बवान् हनुमतः पराक्रमं जानाति । जन्मकाले एव हनुमान् सूर्यं फलम् इति मत्वा तद्ग्रहणाय आकाशम् उत्पतितः । देवैः सह अपि एकाकी स युद्धम् अकरोत् । एवं हनुमतः स्वपराक्रमस्मारकं वाक्यं जाम्बवान् अश्रावयत् । स्वपराक्रमकथाश्रवणेन हनुमान उद्बुद्धः अपरिमितेन विक्रमेण परमेन उत्साहेन च लङ्कामुद्द आकाशम् उदपतत् । ततः लङ्कायाम् अशोकवनिकायां सीतां दृष्टवान् । अतः सुष्ठु वक्तुं शक्यते-
अन्तर्हितं हि कस्तूरी गन्धं स्वयं न विद्यते ।
संक्षेपेण उत्तरं लिखत –
(क) सुग्रीवः कान् किमर्थं प्रेषितवान् ?
Answer:
ଏକଦା କିଷ୍କିନ୍ଧାପତିଃ ସୁଗ୍ରୀତଃ ସ୍ବସ୍ୟ ସେନାପ୍ରମୁଖାନ୍ ସୀତାନ୍ବେଷଣାୟ ଦଶସୁ ଦିକ୍ଷୁ ପ୍ରେଷିତବାନ୍ ।
(ख) दक्षिणस्यां दिशि कौ प्रेषितौ ?
Answer:
ଦକ୍ଷିଣସ୍ୟା ଦିଶି ଜାମ୍ବବାନ୍ ହନୁମାନ୍ ଚ ପ୍ରେଷିତୌ ।
(ग) जाम्बवान् हनुमान् च कुत्र गत्वा किं दृष्टवन्तौ ?
Answer:
ଜାମ୍ବବାନ୍ ହନୁମାନ୍ ଚ ଦକ୍ଷିଣସ୍ୟା ଦିଶି ଗତ୍ବା ଦୃଷ୍ଟବର୍ତ୍ତେ ଯତ୍ ଲଙ୍କାପୁରୀ ବହୁଯୋଜନଦୂରେ ଅଛି ।
(घ) हनुमान् कथं हताश: जात: ?
Answer:
‘କରଂ ବିଶାନଃ ସାଗରଃ ଲଙ୍ଘନୀୟଃ?’ ଇତି ଏତେନ ପ୍ରଶ୍ନନ ହନୁମାନ୍ ହତାଶଃ ଜାତଃ ।
(ङ) हनुमान् कथं विमूढ़ः आसीत् ?
Answer:
ସ୍ଵସାମର୍ଥ୍ୟ ପ୍ରତି ଅବିଶ୍ବସନୀୟ ସନ୍ ହନୁମାନ୍ କିଂ କର୍ତ୍ତବ୍ୟମ୍ ଇତି ବିଚିତ୍ୟ ବିମୂଢ଼ ଆସୀତ୍ ।
(च) कं फलम् इति मत्वा हनुमान् आकाशम् उदपतत् ?
Answer:
ଜନ୍ମକାଳେ ଏବଂ ହନୁମାନ୍ ସୂର୍ଯ୍ୟ ଫଳମ୍ ଇତି ମଜ୍ଜା ତଦ୍ଗ୍ରହଣାୟ ଆକାଶମ୍ ଉଦପତତ୍ ।
(छ) हनुमतः किम्भूतं पराक्रमं जाम्बवान् स्मारितवान् ?
Answer:
ଜନ୍ମକାଳେ ଏବଂ ହନୁମାନ୍ ସୂର୍ଯ୍ୟ ଫଳମ୍ ଇତି ମତ୍ସ୍ୟ ତଦ୍ଗ୍ରହଣାୟ ଆକାଶମ୍ ଉତ୍ପତିତଃ, ଦେବି ସହ ଅପି ଏକାକୀ ଯୁଦ୍ଧମ୍ ଅକରୋଡ୍, ଏବଂ ହନୁମତଃ ପରାକ୍ରମଂ ଜାମ୍ବବାନ୍ ସ୍ମାରିତବାନ୍ ।
(ज) स्वपराक्रमकथा श्रुवा हनुमान् किं कृतवान् ?
Answer:
ସ୍ଵପରାକ୍ରମକଥା ଶ୍ରବଣେନ ହନୁମାନ୍ ଉଦ୍ବୁଦ୍ଧ ଅପରିମିତେନ ବିକ୍ରମେଣ ପରମେନ ଉତ୍ସାହେନ ଚ ଲଙ୍କାମୁଦ୍ଦଶ୍ୟ ଆକାଶମ୍ ଉଦପତତ୍ ।
(झ) सीतां कः कुत्र दृष्टवान् ?
Answer:
ହନୁମାନ୍ ଲଙ୍କାୟାମ୍ ଅଶୋକବନିକାୟାଂ ସୀତାଂ ଦୃଷ୍ଟବାନ୍ ।
(ञ) अस्य विषयस्य का नीतिशिक्षा ?
Answer:
ଅସ୍ୟବିଷୟସ୍ୟ ନୀତିଶିକ୍ଷା ଯତ୍ – ‘ଅନ୍ତର୍ହିତଂ ହି କସ୍ତୁରୀ ଗନ୍ଧ ସ୍ବୟଂ ନ ବିନ୍ଦତେ ।’’
अनुच्छेद – ३
कस्मिंश्चिद् ग्रामे एकः कृषकः आसीत् । तस्य गृहस्य अङ्गने एकः मृद्घटः स्थापितः । एका अजा गृहाभ्यन्तरं प्रविश्य मृद्घटमध्ये निक्षिप्तं धान्यं खादितुम् यत्नं कृतवती । दुर्भाग्यात् तस्याः शिरः कुम्भमध्ये लग्नम् अभवत् । तस्याः शिरः केनापि उपायेन न मुक्तम् वा केनचित् मोचितम् च । तत्र उपस्थितानां जनानाम् सर्वे उपायाः विफलाः जाताः । अनन्योपायाः सर्वे एकं शास्त्रज्ञं पण्डितम् आकारितवन्तः । स उष्ट्रम् आरुह्य तत्र सम्प्राप्तः ।
गृहाभ्यन्तरे उष्ट्रसमेतस्य तस्य प्रवेशः दुष्करः आसीत् । तस्य आदेशेन गृहस्य वाह्यभित्तिः भग्ना । ततः स गृहाङ्गणं गत्वा उष्ट्राद् अवततार । अजायाः शिरः मोचयितुं तेन प्रयासः कृतः । स्वस्य सर्वविधं साधनं विफलं दृष्ट्वा स क्रुद्धः सञ्जातः । खड्गम् आदाय अजायाः शिरश्छेदं कृतवान् । छिन्नं शिरः कुम्भमध्ये अतिष्ठत् । ततः कुम्भोऽपि भग्नीकृतः । एवम् अजायाः शिरः अन्ततः कुम्भमध्यात् मुक्तम् अभवत् । अतः सुष्टूक्तम् – शास्त्राण्यधीत्यापि भवन्ति मूर्खा –
र्यस्तु क्रियावान् पुरुषः स विद्वान् ॥
संक्षेपेण उत्तरं लिखत –
(क) मृद्घटः कुत्र स्थापित: ?
Answer:
ମୃଦ୍ଘଟୀ କୃଷକଗୃହସ୍ୟ ଅଙ୍ଗନେ ସ୍ଥାପିତଃ ।
(ख) अजाया: शिरः कुत्र कथं लग्नम् अभवत् ?
Answer:
ଅଜାଗୃହାଭ୍ୟନ୍ତରଂ ପ୍ରବିଶ୍ୟ ମୃଦ୍ଘଟମସ୍ତେ ନିକ୍ଷିପୁଂ ଧାନ୍ୟ ଖାଦିତଂ ଯତ୍ନ କୃତବତୀ ତଦା ତସ୍ୟା ଶିରଃ କୁମ୍ଭମଧ୍ୟ ଲଗ୍ନମ୍ ଅଭିବତ୍ ।
(ग) कदा किमर्थं पण्डितः आहूतः ?
Answer:
ଅଜାଶିରଃ ମୋଚୟିତୁଃ ଯଦା ଉପସ୍ଥିତାନାଂ ଜନାନାଂ ସର୍ବେ ଉପାୟ ବିଫଳା ଜାତଃ ତଦା ଅନନ୍ୟପାୟା ତେ ଶାସ୍ତ୍ରଜ୍ଞ ପଣ୍ଡିତମ୍ ଆହୂତବନ୍ତଃ ।
(घ) पण्डितः कम् आरुह्य सम्प्राप्तः ?
Answer:
ପଣ୍ଡିତଃ ଉଷ୍ଟ୍ରମ୍ ଆରୂହ୍ୟ ସଂପ୍ରାପ୍ତ ।
(ङ) पण्डितः कथं गृहाङ्गणमध्यं प्रविष्टवान् ?
Answer:
ପଣ୍ଡିତଃ ସ୍ଵାଦେଶେନ ଗୃହସ୍ୟ ବାହ୍ୟଭିଭିଂ ଭଗ୍ନାଂ କାରୟିତ୍ଵ ଗୃହାଙ୍ଗଣମଧ୍ଯ ପ୍ରବିଷ୍ଟବାନ୍ ।
(च) कथं पण्डितः क्रुद्धः सञ्जातः ?
Answer:
ଅଜାୟା ଶିରଃ ମୋଚୟିତୁଃ ସ୍ଵସ୍ୟ ସର୍ବବିଧ୍ୱଂ ସାଧନଂ ବିଫଳ ଦୃଷ୍ଟା ପଣ୍ଡିତଃ କୁଦ୍ଧା ସଂଜାତଃ ।
(छ) अजायाः शिरोमाचनार्थं सः किं कृतवान् ?
Answer:
ଅଜାୟା ଶିରୋମୋଚନାର୍ଥୀ ଡଃ ପଣ୍ଡିତଃ ଖଡ୍ଗମ୍ ଆଦାୟ ତସ୍ୟା ଶିରଛେଦଂ କୃତବାନ୍ ।
(ज) केन अजाया: शिरश्छेद: कुत: ?
Answer:
ଖଡ଼ଗେନ ଅଜାୟା ଶିରଣ୍ଡେଦଃ କୃତଃ ।
(झ) अजाया: छिन्नं शिरः केन प्रकारेण मुक्तम् अभवत् ?
Answer:
ଜୈନଂ ଶିରଃ କୁମ୍ଭମଧ୍ୟ ଅତିଷ୍ଠତ୍, ତତଃ କୁମ୍ଭୋଽପି ଭଗ୍ନୀକୃତଃ, ଏବମ୍ ଅଜାୟା ଶିରଃ ଅନ୍ତତଃ କୁମ୍ଭମତ୍ ମୁକ୍ତମ୍ ଅଭିବତ୍ ।
(ञ) अत्र का नीतिशिक्षा लभ्यते ?
Answer:
‘‘ଶାସ୍ତ୍ରାଣି ଅଧୀତ୍ୟ ଅପି ଭବନ୍ତ ମୂର୍ଖ, ଯଃ ତୁ କ୍ରିୟାବାନ୍ ପୁରୁଷ ସ ବିଦ୍ୱାନ୍’’ – ଇତି ନୀତିଶିକ୍ଷା ଅତ୍ର ଳଭ୍ୟତ।
अनुच्छेद – ४
एकदा काचित् महिला बस्त्रप्रक्षालनार्थं नदीतीरं गता । स्वस्य शिशुं पुत्रं समीपे स्थापयित्वा प्रक्षालनकार्ये व्यापृता अभवत् । नदीतटे वटतरोः अधः कश्चिद् योगी मुद्रितलोचनः ध्यानमग्नः उपविष्टः । बालकः क्रीडन् जलमध्यं प्रविष्टः । नदीप्रवाहे पतितः च । जलधारया प्रवाहितः शिशुः मरणोन्मुखः आसीत् । जीवनरक्षार्थं माता आर्तस्वरेण ‘जीवय जीवय’ इति उच्चैः शब्दं कृतवती । अनेन शब्देन योगिनः ध्यानभङ्गः जातः । स तत्र निश्चलः ध्यानमग्नः भवति चेत् शिशुः मृत्युमुखे पतिष्यति । शिशुरक्षार्थं ध्यानङ्गं करोति चेत् तपस्याभङ्गः भविष्यति । एवं स द्विधाग्रस्तः अभवत् । स्वार्थं साधयेत् परार्थे जीवनं वा पातयेत्। अन्ततो गत्वा स नदीमध्यं प्रविश्य शिशुम् उद्धारयामास ।
सुष्टुच्यते – स बन्धुर्यो विपन्नानामापदुद्धरणक्षमः ।
पुनश्च – स्वार्थपरार्थयोर्मध्ये परार्थो हि विशिष्यते ।
संक्षेपेण उत्तरं लिखत –
(क) महिला कुत्र किमर्थं गतवती ?
Answer:
ମହିଳା ବସ୍ତ୍ରପ୍ରକ୍ଷାଳନାର୍ଥୀ ନଦୀତୀରଂ ଗତବତୀ ।
(ख) महिला नदीतीरं गत्वा किं कृतवती ?
Answer:
ମହିଳା ନଦୀତୀରଂ ଗମ୍ହା ପ୍ରକ୍ଷାଳନକାର୍ଯ୍ୟ ବ୍ୟାପୃତା ଅଭବତ୍ ।
(ग) योगी कुत्र कीदृशः उपविष्टः ?
Answer:
କଶ୍ଚିତ୍ ଯୋଗୀ ନଦୀତଟେ ବଟତରୋ ଅଧଃ ମୁଦ୍ରିତଲୋଚନଃ ଧ୍ୟାନମଶଃ ସନ୍ ଉପବିଷ୍ଟ୍ୟ ।
(घ) शिशुः कथं नदीमध्यं प्रविष्टः ?
Answer:
ଶିଶୁ କ୍ରୀଡ଼ନ୍ ନଦୀମଧ୍ଯ ପ୍ରବିଷ୍ଟ ।
(ङ) नदीप्रवाहे शिशोः कीदृशी अवस्था जाता ?
Answer:
ନଦୀପ୍ରବାହେ ପତିତଃ ଜଳଧାରୟା ପ୍ରବାହିତଃ ଚ ଶିଶୁ ମରଣୋନ୍ମୁଖୀ ଆସୀତ୍ ।
(च) महिला स्वपुत्ररक्षार्थं किं कृतवती ?
Answer:
ମହିଳା ସ୍ଵପୁତ୍ରରକ୍ଷାର୍ଥମ୍ ଆର୍ଡସ୍ଵରେଣ ‘ଜୀବୟ ଜୀବୟ’ ଇତି ଉଚ୍ଚୈଃ ଶବ୍ଦ କୃତବତୀ ।
(छ) योगिनः ध्यानभङ्गः कथं जात: ?
Answer:
ସ୍ବପୁତ୍ରଜୀବନରକ୍ଷାର୍ଥୀ ମାତା ଆର୍ଡସ୍ଵରେଣ ‘ଜୀବୟ ଜୀବୟ’ ଇତି ଉଚ୍ଚୈଃ ଶବ୍ଦ କୃତବତୀ, ଅନେନ ଶବ୍ଦନ ଯୋଗିନଃ ଧ୍ୟାନଭଙ୍ଗ ଜାତଃ ।
(ज) योगी कथं द्विधाग्रस्तः आसीत् ?
Answer:
‘ନିଶ୍ଚତଃ ଧ୍ୟାନମଶଃ ଭବାମି ଚେତ୍ ଶିଶୁ ମୃତ୍ୟୁମୁଖେ ପତିଷ୍ୟତି, ଧ୍ୟାନଭଙ୍ଗ କରୋମି ଚେତ୍ ତପସ୍ୟାଭଙ୍ଗ ଭବିଷ୍ୟତି’ ଇତି ବିଚିନ୍ତା ଯୋଗୀ ଦ୍ବିଧାଗ୍ରସ୍ଥ ଆସୀତ୍ ।
(झ) योगी अन्ततो गत्वा किं कृतवान् ?
Answer:
ଯୋଗୀ ଅନ୍ତତୋ ଗଡା଼ ନଦୀମଧ୍ଯ ପ୍ରବିଶ୍ୟ ଶିଶୁମ୍ ଉଦ୍ଧରୟାମାସ ।
(ञ) अत्र का नीतिशिक्षा लभ्यते ?
Answer:
‘ସ ବନ୍ଧୁର୍ଯୋ ବିପନ୍ନନାମାପଦୁଦ୍ଧରଣକ୍ଷମଃ’, ‘ସ୍ବାର୍ଥପରାର୍ଥୟୋର୍ମଧେ ପରାର୍ଥେ ହିଁ ବିଶିଷ୍ୟତେ’’ ଇତି ନୀତିଶିକ୍ଷା ଅତ୍ର ଲଭ୍ୟତେ ।
अनुच्छेद – ५
कस्मिंश्चिद् वने शशकाः आसन् । ते अतीव कोमलाः दुर्बलाः च । तृणभक्षणाय यदा ते गच्छन्ति तदा महता भ आच्छन्नाः भवन्ति । कुक्कुराः शृगालाः व्याघ्राः च आनन्देन तान् खादन्ति । सर्वदा ते जीवनभयेन शङ्काकुलाः आसन् । एकदा ते सर्वे सभायां मिलिताः । ते चिन्तां प्रकटितवन्तः यत् किम् अनेन जीवनेन येन प्रतिपदं भयं भवति । आत्मरक्षार्थं सर्वेषां प्राणिनां साधनानि सन्ति । हरिणस्य शृङ्गौ, विडालस्य नखाः, नकुलस्य दन्ताः, सर्पस्य विषं च सन्ति । विधाता अस्मान् प्रति अन्यायं कृतवान् ।
अस्माकं जीवनरक्षणस्य कः अपि उपायः न विहितः । अतः स्वजीवनविसर्जनं कुर्मः । इति निश्चित्य ते जलाशयं प्रति अगच्छन् । जलाशयस्य तटदेशे केचन भेकाः उपविष्टाः । ते शशकम् दृष्ट्वा जलाशयमध्यं पतिताः । तद् विलोक्य एकः वृद्धः शशकः उक्तवान्, जीवनविसर्जनस्य नास्ति आवश्यकता । अस्मद् अपि जीवाः भयं कुर्वन्ति । अतः यद् जीवनं प्राप्तं तत् श्रेयसे एव । सीमिते अपि काले आनन्दः आस्वादनीयः । इति तद् वचनम् आकर्ण्य सर्वे प्रस्थानं कृतवन्तः । अतो वक्तुं शक्यते ।
आनन्दानुभवः श्रेयान् क्षीयमाणेऽपि जीवने ।
संक्षेपेण उत्तरं लिखत –
(क) शशकाः कीदृशाः आसन् ?
Answer:
ଶଶକା ଅତୀବ କୋମଳା ଦୁର୍ବଳାଃ ଚ ଆସନ୍ ।
(ख) जीवनं प्रति तेषां कथं भयम् आसीत् ?
Answer:
ଯଦା ଶଶକଃ ତୃଣଭକ୍ଷଣାୟ ଗଛନ୍ତି କୁକ୍କୁରାଦୟଃ ତାନ୍ ଖାଦନ୍ତି ଇତି ତେଷା ଜୀବନଂ ପ୍ରତି ଭୟମ୍ ଆସୀତ୍ ।
(ग) के तान् भक्षयन्ति ?
Answer:
କୁକ୍କୁରଃ ଶୃଗାଳୀ ବ୍ୟାଘ୍ରା ଚ ଆନନ୍ଦେନ ତାନ୍ ଭକ୍ଷୟନ୍ତି ।
(घ) सभायां शशकाः किं निश्चयं कृतवन्तः ?
Answer:
ଯତଃ ଅସ୍ମାକଂ ଜୀବନରକ୍ଷଣାୟ କଃ ଅପି ଉପାୟ ବିଧାତ୍ରା ନ ବିହିତଃ, ଅତଃ ସ୍ବଜୀବନଂ ବିସର୍ଜନଂ କୁର୍ମା ଇତି ସଭାୟାଂ ଶ୍ମଶ ନିଶ୍ଚୟଂ କୃତବନ୍ତଃ ।
(ङ) अन्येषां क्षुद्रजन्तूनां कानि जीवनरक्षासाधनानि सन्ति ?
Answer:
ହରିଣସ୍ୟ ଶୃଙ୍ଗୀ, ବିଡ଼ାଳସ୍ୟ ନଖା, ନକୁଳସ୍ୟ ଦନ୍ତା, ସର୍ପସ୍ୟ ବିଷମ୍ ଏତାନି କ୍ଷୁଦ୍ରଜନ୍ତୁନାଂ ଜୀବନରକ୍ଷାସାଧନାନି ସନ୍ତା
(च) शशका: प्राणविसर्जनार्थं कुत्र गतवन्तः ?
Answer:
ଶଶକା ପ୍ରାଣବିସର୍ଜନାର୍ଥୀ ଜଳାଶୟଂ ଗତବନ୍ତଃ ।
(छ) विधाता तान् प्रति किं कृतवान् ?
Answer:
ବିଧାତା ତାନ୍ ପ୍ରତି ଅନ୍ୟାୟଂ କୃତବାନ୍ ।
(ज) शशका: कथं प्राणान् न त्यक्तवन्तः ?
Answer:
ସ୍ବଜୀବନ ମହତ୍ତ୍ୱତ୍ ଶଶକଃ ପ୍ରାଣାନ୍ ନ ତ୍ୟକ୍ତବନ୍ତଃ ।
(झ) बृद्धः शशकः जीवनस्य विषये किमुक्तवान् ?
Answer:
ବୃଦ୍ଧା ଶଶକଃ ଜୀବନସ୍ୟ ବିଷୟ ଉକ୍ତବାନ୍ – ‘ଜୀବନବିସର୍ଜନସ୍ୟ ନାସ୍ତି ଆବଶ୍ୟକତା, ଅସ୍ମଦ୍ ଅପି ଜୀବା ଭୟଂ କୁର୍ବନ୍ତି, ଅତଃ ଯଦ୍ ଜୀବନଂ ପ୍ରାପ୍ତ ତତ୍ ଶ୍ରେୟସେ ଏବ, ସୀମିତେ ଅପି କାଳେ ଆନନ୍ଦନୀୟଃ ।”
(ञ) अस्मिन् विषये का नीतिशिक्षा लभ्यते ?
Answer:
‘ଆନନ୍ଦାନୁଭବାଃ ଶ୍ରେୟାନ୍ କ୍ଷୀୟମାଣୋଽପି ଜୀବନେ’- ଇତି ନୀତିଶିକ୍ଷା ଅସ୍ମିନ୍ ବିଷୟେ ଲଭ୍ୟତେ ।
अनुच्छेद – ६
जीवनस्य चत्वारः भागाः निर्धारिताः । ते यथा ब्रह्मचर्याश्रमः, गृहस्थाश्रमः, वानप्रस्थाश्रमः, सन्यासाश्रमः च । ब्रह्मचर्याश्रमस्य नामान्तरं छात्रजीवनम् । एतेषु भागेषु छात्रजीवनं गुरुत्वपूर्णम् । तद् भवति जीवनस्य भित्तिभूमिः । दृढ़ां भित्तिभूमिं विना भवनं दुर्वलं भवति । तथैव दृढ़ छात्रजीवनं विना भावि जीवनं सफलं न भवति । विद्यार्जनं छात्रजीवनस्य तपस्या भवति । विद्या मानविकतां निर्दिशति । श्रमेण विना विद्या न लभ्यते । अध्ययनं तपः । अध्ययनकाले सुखस्य चिन्तनं न करणीयम् । सुष्टुक्तम् – सुखार्थिनः कुतो विद्या कुतो विद्यार्थिनः सुखम् । छात्रः न ग्रन्थकीटः भवेत् । विद्यार्जनेन सह छात्रः चरित्रनिर्माणम् अपि कुर्यात् । छात्रः महापुरुषाणां जीवनचरितानि पठेत् । तेषाम् आचरणेन उद्बुद्धः आदर्शमयजीवन निर्माणे व्रतं पालनीयम् ।
तपोबलेन छात्रस्य जीवनं सफलं दृढम् ।
संक्षेपेण उत्तरं लिखत –
(क) जीवनस्य चत्वारः भागाः के ?
Answer:
ବ୍ରହ୍ମଚର୍ଯ୍ୟାଶ୍ରମ, ଗୃହସ୍ଥାଶ୍ରମଃ, ବାନପ୍ରସ୍ଥାଶ୍ରମ, ସନ୍ନ୍ୟାସାଶ୍ରମ ଚେତି ଜୀବନସ୍ୟ ଚତ୍ବାରଃ ଭାଗ୍ୟ ଭବନ୍ତି ।
(ख) कस्य नामान्तरं छात्रजीवनम् ?
Answer:
ବ୍ରହ୍ମଚର୍ଯ୍ୟାଶ୍ରମସ୍ୟା ନାମାନ୍ତରଂ ଛାତ୍ରଜୀବନମ୍ ।
(ग) छात्रजीवनं कथं गुरुत्वपूर्णम् ?
Answer:
ଜୀବନସ୍ୟ ଭିତ୍ତିଭୂମି ଛାତ୍ରଜୀବନଂ ତସ୍ମାତ୍ତତ୍ ଗୁରୁତ୍ଵପୂର୍ଣମ୍ ।
(घ) छात्रजीवने विद्यार्जनस्य किं महत्वमस्ति ?
Answer:
ବିଦ୍ୟାର୍ଜନଂ ଛାତ୍ରଜୀବନସ୍ୟ ତପସ୍ୟା ଭବତି, ବିଦ୍ୟା ମାନବିକତାଂ ନିର୍ଦ୍ଦଶତି ଚ ଅତଃ ଛାତ୍ରଜୀବନେ ବିଦ୍ୟାର୍ଜନସ୍ୟ ମହଭୂମସ୍ତି ।
(ङ) अध्ययनस्य महत्त्वं किम्, तथा च अध्ययनाय किं करणीयम् ?
Answer:
ଅଧ୍ୟୟନଂ ଭବତି ତପଃ, ଅତଃ ଅଧ୍ୟୟନକାଳେ ସୁଖସ୍ୟ ଚିନ୍ତନଂ ନ କରଣୀୟମ୍ ।
(च) विद्यार्जनस्य कृते किं सृष्ठु उक्तम् ?
Answer:
‘ସୁଖାର୍ଥନଃ କୁତୋ ବିଦ୍ୟା କୁତୋ ବିଦ୍ୟାର୍ଥନଃ ସୁଖମ’- ଇତି ବିଦ୍ୟାର୍ଜନସ୍ୟ କୃତେ ସୁଶ୍ରୁ ଉକ୍ତମ୍ ।
(छ) विद्यार्जनं छात्रस्य किं साधयति ?
Answer:
ବିଦ୍ୟାର୍ଜନଂ ଛାତ୍ରସ୍ୟ ମାନବିକତାଂ ସାଧୟତି ।
(ज) छात्रः कीदृशः न भवेत् ?
Answer:
ଛାତ୍ର ଗ୍ରନ୍ଥକୀତଃ ନ ଭବେତ୍ ।
(झ) आदर्शमयजीवननिर्माणाय छात्रस्य कृते किं करणीयम् ?
Answer:
ଆଦର୍ଶମୟଜୀବନନିର୍ମାଣାୟ ଛାତ୍ର ମହାପୁରୁଷାଣା ଜୀବନଚରିତାନି ଅବଶ୍ୟ ପଠନୀୟମ୍ ।
(ञ) अत्र का नीतिशिक्षा लभ्यते ?
Answer:
‘ତପୋବଳେନ ଛାତ୍ରସ୍ୟ ଜୀବନଂ ସଫଳ ତୃତମ୍’ – ଇତି ନୀତିଶିକ୍ଷା ଲଭ୍ୟତେ ।
अनुच्छेद – ७
जीवने प्रतिपदं विज्ञानस्य उपयोगिता अनुभूयते । विज्ञानस्य चमत्कारान् दृष्ट्वा वयं विस्मिताः । सर्वेषु क्षेत्रेषु विज्ञानस्य प्रयोगाः उपकाराः च दृश्यन्ते । विज्ञानवलेन विश्वम् एकनीडं भवति । व्योमयानेन स्वल्पकालमध्ये देशाद् देशान्तरं गन्तुं पारयामः । सरितः, पर्वताः, सागराः नभः च मनुष्याणां मध्ये सम्बन्धस्थापने प्रतिवन्धकं न उत्पादयन्ति । उपग्रहचित्रेण महाकाशस्य ग्रहाणां नक्षत्राणां पृथिव्याश्च अज्ञाततत्त्वानि ज्ञायन्ते । अन्तर्जालव्यवस्थाया मुहूर्तं संयोगः स्थापितः भवति । विद्युतः उपयोगः वहुविधेषु क्षेत्रेषु जीवनं सुखमयं करोति । विज्ञानस्य उपयोगनिमित्तं शिल्पायतननि स्थपितानि भवन्ति । तदर्थं कृषिक्षेत्राणां वनानां च उच्छेदः क्रियते । शिल्पायतननिर्गतैः दूषितैः पदार्थैः परिवेशः प्रदूषितः भवति । जले, स्थले, अन्तरिक्षे वायुमण्डले च सर्वत्र प्रदूषणस्य दुष्प्रभावः अनुभूयते । जीवनं क्रमशः शङ्काग्रस्तं भवति । विज्ञानस्य समुन्नत्या सह परिवेशः सुरक्षितः भवति चेत् विश्वस्य सौन्दर्यं संरक्षितं स्थात् ।
न विज्ञानसमो वन्धुर्जीवनस्य सुरक्षणे ।
अयथार्थप्रयोगे तु विनाशको रिपुर्भवेत् ॥
संक्षेपेण उत्तरं लिखत –
(क) वयं कथं विस्मिताः ?
Answer:
ବିଜ୍ଞାନସ୍ୟ ଚମତ୍କାରାନ୍ ଦୃଷ୍ଟା ବୟଂ ବିସ୍ମିତଃ ।
(ख) कथं विश्वम् एकनीड़ं भवति ?
Answer:
ବିଜ୍ଞାନବଳେନ ବିଶ୍ବମ୍ ଏକନୀତଂ ଭବତି ।
(ग) मनुष्याणां सम्बन्धस्थापने के प्रतिबन्धकं नोत्पादयन्ति ?
Answer:
ସରିତଃ ପର୍ବତଃ ସାଗରା ନଭଃ ଚ ମନୁଷ୍ୟାଣଂ ସମ୍ବନ୍ଧସ୍ଥାପନେ ପ୍ରତିବନ୍ଧକଂ ନୋତ୍ପାଦୟନ୍ତି ।
(घ) उपग्रहचित्रेण को लाभो भवति ?
Answer:
ଉପଗ୍ରହଚିତ୍ରେଣ ମହାକାଶସ୍ୟ ଗ୍ରହାଣଂ ନକ୍ଷତ୍ରାଣା ପୃଥିବ୍ୟାଶ୍ଚ ଅଜ୍ଞାତତ୍ତ୍ଵାନି ଜ୍ଞାୟନ୍ତେ ।
(ङ) अन्तजलब्यवस्थया को लाभो भवति ?
Answer:
ଅନ୍ତର୍ଜାଲବ୍ୟବସ୍ଥୟା ସୁଦୁର୍ତ୍ତଂ ସଂଯୋଗ ସ୍ଥାପିତଃ ଭବତି ।
(च) विद्युत: उपयोगः किं करोति ?
Answer:
ବିଦ୍ୟୁତଃ ଉପଯୋଗୀ ବହୁବିଧେଷୁ କ୍ଷେତ୍ରେଷୁ ଜୀବନଂ ସୁଖମୟଂ କରୋତି ।
(छ) शिल्पायतनानि कथं स्थापितानि भवन्ति ?
Answer:
ବିଜ୍ଞାନସ୍ୟ ଉପଯୋଗନିମିତ୍ତ ଶିଵାୟତନାନି ସ୍ଥାପିତାନି ଭବନ୍ତି ।
(ज) परिवेशः कथं प्रदूषितः भवति ?
Answer:
ଶିଳ୍ପାୟତନନିର୍ଗତଃ ଦୂଷିତଃ ପଦାର୍ଥେ ପରିବେଶଃ ପ୍ରଦୂଷିତଃ ଭବତି ।
(झ) विश्वस्य सौन्दर्यं कथं सुरक्षितं स्यात् ?
Answer:
ବିଜ୍ଞାନସ୍ୟ ସମୁନ୍ନତ୍ୟା ସହ ପରିବେଶଃ ସୁରକ୍ଷିତଃ ଭବତି ଚେତ୍ ବିଶ୍ୱସ୍ୟ ସୌନ୍ଦର୍ଯ୍ୟ ସୁରକ୍ଷିତଂ ସ୍ୟାତ୍ ।
(ञ) अत्र का नीतिशिक्षा लभ्यते ?
Answer:
‘ନ ବିଜ୍ଞାନସମୋ ବନ୍ଧୁର୍ଜୀବନସ୍ୟ ସୁରକ୍ଷଣେ, ଅଯଥାର୍ଥପ୍ରୟୋଗେ ତୁ ବିନାଶକୋ ରିପୁର୍ଭବେତ୍’ – ଇତି ନୀତିଶିକ୍ଷା ଅତ୍ର ଲଭ୍ୟତେ ।
अनुच्छेद – ८
शरीरस्य सुरक्षार्थं करौ, चरणौ, नयने, कर्णौ, मुखम्, अन्ये च अवयवाः उपकारं साधयन्ति । तेषां यत्नेन शरीरं पुष्टिं प्राप्नोति । एकदा स्वस्वगौरवप्रदर्शनार्थं ते विवादं कृतवन्तः । पादाभ्यां विना कोऽपि पदमपि चलितुं न प्रभवति । नयने विना न किञ्चिद् दृश्यते । नासिकां विना श्वासक्रिया न भवति । कर्णाभ्यां विना शब्दश्रवणं न सम्भवति । कराभ्यां विना कार्यसम्पादनं दुष्करम् । तत्र विवादकाले मुखेन उक्तम् – विवादेन अलम् । सर्वे अवयवाः स्वस्वकार्याणि कुर्वन्ति ।
एकं तु अङ्गं सर्वेषाम् अङ्गानां यत्नेन पुष्टं भवति स्वयं न किञ्चित् करोति । तत् शरीरस्य भारं वर्धयति । अत एव तस्य उदरस्य कृते आहारं न दास्यामः । एवम् आहारं विना पञ्चषाः दिवसाः व्यतीताः । सर्वे अवयवाः क्रमशः दुर्बलाः असमर्थाश्च जाताः । उदरस्य महत्त्वं तैः साक्षादनुभूतम् । उदरम् सदैव कर्मतत्परम् । सर्वेषाम् अङ्गानां सहयोगेन उदरम् अन्नं प्राप्नोति । तेन पुष्टम् उदरं भुक्तस्य अन्नस्य पाकेन रसनिर्माणं कृत्वा सर्वेषु अङ्गेषु शक्ति सञ्चारयति । एवम् उदरस्य महत्त्वमनुभूय सर्वे अवयवाः .: आत्मश्लाघां परित्यज्य स्वस्वकर्मसु पूर्ववद् व्यापृताः अभवन् ।
अतः कथ्यते – असंहता विनश्यन्ति समेधिताः सुसंहताः ।
संक्षेपेण उत्तरं लिखत –
(क) केषां यत्नेन शरीरं पुष्टिं प्राप्नोति ?
Answer:
ଅବୟବାନାଂ ଯତ୍ନନ ଶରୀରଂ ପୁଷ୍ଟି ପ୍ରାଷ୍ଟୋତି ।
(ख) अवयवाः कथं विवादं कृतवन्तः ?
Answer:
ସ୍ୱ ସ୍ୱ ଗୌରବପ୍ରଦର୍ଶନାର୍ଥମ୍ ଅବୟବା ବିବାଦଂ କୃତବନ୍ତଃ ।
(ग) शरीरस्य अङ्गानां कार्याणि वर्णयत ?
Answer:
ପାଦାଭିଂ ଚଳନଂ, ନୟନାଭ୍ୟ ଦର୍ଶନଂ ନାସିକୟା ଶ୍ଵାସକ୍ରିୟା, କଣ୍ଠଭ୍ୟ ଶବ୍ଦଶ୍ରବଣଂ, କରାଭ୍ୟଂ କାର୍ଯ୍ୟସମ୍ପାଦନଂ ଚାଦି ଶରୀରସ୍ୟ ଅଙ୍ଗାନାଂ କାର୍ଯ୍ୟାଣି ଭବନ୍ତି ।
(घ) नासिकया कः उपकारः भवति ?
Answer:
ନାସିକୟା ଶ୍ଵାସକ୍ରିୟା ସମ୍ଭବତି ।
(ङ) विवादकाले मुखेन किंमुक्तम् ?
Answer:
ବିବାଦକାଳେ ମୁଖେନ ଉକ୍ତମ୍ – ବିବାଦେନ ଅଳମ୍ । ସର୍ବେ ଅବୟବ ସ୍ବସ୍ୱ କାର୍ଯ୍ୟାଣି କୁର୍ବନ୍ତି, ଏବଂ ତୁ ଉଦରଂ ସର୍ବେଷାମ୍ ଅଙ୍ଗାନାଂ ଯତ୍ନନ ପୁଙ୍ଖ ଭବତି ସ୍ବୟଂ ନ କିଞ୍ଚିତ୍ କରୋତି କେବଳଂ ଶରୀରସ୍ୟ ଭାରଂ ବର୍ଧୟତି, ଅତଏବ ତସ୍ୟ ଉଦରସ୍ୟ କୃତେ ଆହାରଂ ନ ଦାସ୍ୟାମଃ ।
(च) आहारं विना किं जातम् ?
Answer:
ଆହାରଂ ବିନା ସର୍ବେ ଅବୟବାଃ କ୍ରମଶଃ ଦୁର୍ବଳାଃ ଅସମର୍ଥାଶ୍ଚ ଜାତାଃ ।
(छ) आहारं विना कति दिवसाः व्यतीताः ?
Answer:
ଆହାରଂ ବିନା ପଞ୍ଚଷା ଦିବସା ବ୍ୟତୀତଃ ।
(ज) अङ्गेषु उदरं कथं शक्तिं सञ्चारयति ?
Answer:
ଉଦରଂ ଭୁକ୍ତସ୍ୟ ଅନ୍ତସ୍ୟ ପାକେନ ରସନିର୍ମାଣଂ କୃତ୍ୱା ସର୍ବେଷୁ ଅଙ୍ଗେଷୁ ଶକ୍ତି ସଞ୍ଚାରୟତି ।
(झ) उदरस्य महत्त्वं ज्ञात्वा अवयवाः किं कृतवन्त: ?
Answer:
ଉଦରସ୍ୟ ମହତ୍ତ୍ୱ ଜ୍ଞାତ୍ମା ସର୍ବେ ଅବୟବାଃ ଆତ୍ମଣ୍ଡାଘାଂ ପରିତ୍ୟଜ୍ୟ ସ୍ୱ ସ୍ୱ କର୍ମସୁ ପୂର୍ବବତ୍ ବ୍ୟାପୃତାଃ ଅଭବନ୍ ।
(ञ) अत्र का नीतिशिक्षा लभ्यते ?
Answer:
‘‘ ଅସଂହତଃ ବିନଶ୍ୟନ୍ତି ସମେଧ୍ୱ ସୁସଂହତା’’- ଇତି ନୀତିଶିକ୍ଷା ଅତ୍ର ଲଭ୍ୟତେ ।