Odisha State Board CHSE Odisha Class 12 Sanskrit Solutions Grammar ଅନୁଚ୍ଛେଦଭାଗ Textbook Exercise Questions and Answers.
CHSE Odisha Class 12 Sanskrit Grammar ଅନୁଚ୍ଛେଦଭାଗ Question Answer
ଅନୁଚ୍ଛେଦ – ୯
देवाः, मानवाः दानवाः च प्रजापतेः पुत्राः । एकदा ते पितरं प्रजापतिम् उपसृत्य प्रार्थयामासुः । भगवन्, अस्मभ्यम् उपदेशं देहि । प्रजापतिः ‘द’ इति त्रिवारं सूत्ररूपेण उच्चारितवान् । एतेन ते सन्तुष्टाः । देवाः उपदेशसूत्रं ज्ञातवन्तः । ते स्वर्गे सुखरताः विलासप्रियाः । तेषां कृते आत्मनिग्रहः आवश्यकः । ददाम्यत इन्द्रियदमनं कुरुत इत्यर्थं ते गृहीतवन्तः । मानवा: स्वार्थपराः दानाविमुखाः । तेषां निमित्तं दानम् प्रयोजनीयम् । अतः, द दत्त । दानादिना परोपकारं कुरुत इत्यर्थं ते अवगतवन्तः । दानवाः निष्ठुराः हिंसापरायणाः । तदर्थं दया हि परमो धर्मः । अतः, द – दयध्वम् – इत्यर्थं ते ज्ञातवन्तः । प्रजापतेः वाणी द-द-द इति निर्गता । दाम्यत, दत्त, दयध्वम् – इति नीतिवाणी गगने गुञ्जन्ती अमूल्यं जीवनादर्शम् उपदिशति । स्वार्थात्मिका प्रवृत्तिर्हि निवृत्तिस्तु परा मता ।
प्रश्नाः
१ । एकेन वाक्येन उत्तरं लिखत ।
(क) प्रजापतेः के पुत्राः ?
(ख) प्रजापतिपुत्राः किं प्रार्थयामासुः ?
(ग) प्रजापतिः कीदृशम् आशीर्वादं दत्तवान् ?
(घ) प्रथम ‘द’ स्य कः अर्थः ?
(ङ) द्वितीय ‘द’स्य कम् अर्थं मानवाः ज्ञातवन्तः ?
(च) अत्र का नीतिशिक्षा लभ्यते ?
(छ) प्रजापतिः कं वर्णं त्रिवारम् उच्चारितवान् ?
ଉତ୍ତର :
(କ) ଦେବାଃ, ମାନବାଃ ଦାନବାଃ ଚ ପ୍ରଜାପତଃ ପୁତ୍ରାଃ ।
(ଖ) ପ୍ରତାପତିପୁତ୍ରା ‘ଭଗବାନ୍, ଅସ୍ମଭ୍ୟମ୍ ଉପଦେଶଂ ଦେହି ‘ – ଇତି ପିତରଂ ପ୍ରଜାପତଂ ପ୍ରାର୍ଥୟାମାସୁ ।
(ଗ) ପ୍ରଜାପତିଃ ‘ଦ’ ଇତି ତ୍ରିବାରଂ ସୂତ୍ରରୂପେଣ ଆଶୀର୍ବାଦଂ ଦତ୍ତବାନ୍ ।
(ଘ) ପ୍ରଥମ ‘ଦ’ ଇତି ଅସ୍ୟ ଅର୍ଥ ଦାମ୍ୟତ ଇନ୍ଦ୍ରିୟ ଦମନଂ କୁରୁତ ।
(ଙ) ଦ୍ବିତୀୟ ‘ଦ’ ଇତି ଅସ୍ୟ ଦାନାଦିନା ପରୋପକାରଂ କୁରୁତ୍ୱ ଇତ୍ୟର୍ଥୀ ମାନବାଃ ଜ୍ଞାତବନ୍ତଃ ।
(ଚ) ଅତ୍ର ନୀତିଶିକ୍ଷା ଲଭ୍ୟତେ ଯତ୍ – ସ୍ଵାର୍ଥାମ୍ବିକା ପ୍ରବୃଭିହିଁ ନିବୃତ୍ତିସ୍ତୁ ପରା ମତା ।’
(ଛ) ପ୍ରଜାପତିଃ ଦ ଇତି ତ୍ରିବାରମ୍ ଉଚ୍ଚାରିତବାନ୍ ।
ଅନୁଚ୍ଛେଦ – ୧୦
एकस्मिन् तपोवने कश्चिद् ऋषिः आसीत् । तस्य अनेके शिष्याः । कदाचिद् गुरुः उपदिष्टवान् । सर्वप्राणिषु भगवान् अस्ति । अतः समभावः सर्वत्र दर्शनीयः । एकदा कश्चित् शिष्यः मार्गे गच्छति स्म । एकः मदोन्मत्तः गजः आगच्छति । ‘अपसर अपसर’ इति कोलाहलः श्रुतः । स शिष्यः चिन्तितवान् – गजः भगवतस्वरूपः, अतः धावनेन किम् ? गजोपरि हस्तिपकः ‘शीघ्रं धाव’ इति निर्देशं कृतवान् । किन्तु शिष्यः अविचलितः तत्र स्थितः । गजः शुण्ड्या शिष्यम् उत्क्षिप्य दूरे निक्षिप्तवान् । शिष्यः आहतः चेतनाहीनः जातः । तस्य सहपाठिनः तम् नीत्वा उपचारं कृतवन्तः ।
शिष्यः स्वस्थः सन् गुरुं पृच्छति – गुरो ! गजः भगवतस्वरूपः, स कथम् इत्थं कृतवान् ? गुरुः पृष्ठवान् – हस्तिपकः अपि भगवतस्वरूपः । तस्य वचनं कथं न श्रुतम् ? स च कथितवान्- वत्स ! सर्वजलं न गङ्गाजलम् । समुद्र – जलम् अपि जलं किन्तु न पानयोग्यम् । अतएव सज्जनः असज्जनः इति भेदः अस्ति । अतः तद्भेदं ज्ञात्वा एव कार्यं सम्पादनीयम् । ज्ञानं भारः क्रियां विना ।
प्रश्नाः
१ । एकेन वाक्येन उत्तरं लिखत ।
(क) गुरुः शिष्यान् किम् उपदिष्टवान् ?
(ख) शिष्यः धावनार्थं कथं विमुखाः जातः ?
(ग) गंजः शिष्यस्य कां दशां कृतवान् ?
(घ) संज्ञां प्राप्य शिष्यः गुरुं किं पृष्ठवान् ?
(ङ) गुरुः कीदृशम् उत्तरं दत्तवान् ?
(च) मार्गे कीदृशः गजः आगतवान् ?
(छ) अन्ये शिष्याः आहतस्य शिष्यस्य किं कृतवन्तः ?
ଉତ୍ତର :
(କ) ଗୁରୁ ଶିଷ୍ୟାନ୍ ଉପଦିଷ୍ଟବାନ୍ – ସର୍ବପ୍ରାଣିଷ୍ଣୁ ଭଗବାନ୍ ଅସ୍ଥି । ଅତଃ ସମଭାବ ସର୍ବତ୍ର ଦର୍ଶନୀୟ ।
(ଖ) ସ ଶିଷ୍ୟ ଚିତବାନ୍ – ଗଜଃ ଭଗବତସ୍ୱରୂପଃ, ଅତଃ ଧାବନାର୍ଥୀ ଡଃ ବିମୁଖ ଜାତଃ ।
(ଗ) ଗଜଃ ଶୁଶ୍ୟା ଶିଷ୍ୟମ୍ ଉତ୍କ୍ଷିପ୍ୟ ଦୂରେ ନିକ୍ଷିପ୍ତବାନ୍, ଯେନ ସ ଆହତଃ ଚେତନାହୀନଃ ଜାତଃ ।
(ଘ) ସଂଜ୍ଞା ପ୍ରାପ୍ୟ ଶିଷ୍ୟ ଗୁରୁ – ପୃଷ୍ଟବାନ୍ ଗୁରେ ! ଭଗବତଃସ୍ୱରୂପ, ସ କଥମ୍ ଇଡିଂ କୃତବାନ୍ ।
(ଙ) ଉତ୍ତରଣ ଗୁରୁ ଶିଷ୍ୟ ପୃଷ୍ଟବାନ୍ – ହସ୍ତପକଃ ଅପି ଭଗବତସ୍ଵରୂପଃ, ପରନ୍ତୁ ତସ୍ୟ ବଚନଂ କଲଂ ନ ଶ୍ରୁତମ୍ ?
(ଚ) ମାର୍ରେ ଏକ ମଦୋନ୍ଵିତଃ ଗଜଃ ଆଗତବାନ୍ ।
(ଛ) ଅନ୍ୟ ଶିଷ୍ୟ ଆହତସ୍ୟ ଶିଷ୍ୟସ୍ୟ ଉପଚାରଂ କୃତବନ୍ତଃ ।
ଅନୁଚ୍ଛେଦ – ୧୧
पुरा कश्चित् चित्रकलाप्रियः नृपः आसीत् । सः कलाकारान् सम्मानयति स्म । एकदा द्वौ चित्रकरौ आगतौ । एकः कथितवान् – अहं महाभारतचित्रं करोमि । तदर्थं दशवर्षाणि उपेक्षितानि । द्वितीयः कथितवान् – अहं गुप्तं किमपि चित्रं रचयामि । तदर्थम् अनुमतिः दीयते चेत् स्वकलाम् अन्ते दर्शयामि । तत्र भित्तिद्वयं परस्परम् अभिमुखम् अस्ति । एकस्यां प्रथमः महाभारतचित्रं करोतु । द्वितीयः अपरत्र लिखतु इति राजादेशः आसीत् । एवं दशवर्षाणि व्यतीतानि । चित्रोन्मोचनस्य कालः आगतः । पूर्वम् राजा प्रथमस्य चीत्रं दृष्टवान् । स महाभारतस्य चित्रं विलोक्य चमत्कृतः । अद्भुतां कलां प्रशंसितवान् ।
द्वितीयः राजसमिपम् आगत्य उक्तवान् – महाराज ! मम चित्रमपि सम्पन्नम् । जवनिकाम् अपसारयतु भवान् । तत्रापि प्रथमस्य चित्रस्य अविकलं रूपं दृश्यते । कोऽपि भेदः न ज्ञायते । राजा कारणं पृष्टवान् । द्वितीय: चित्रकरः विनीतं निवेदितवान्, महाराज ! न मया चित्रं लिखितम् । केवलं दशवर्षाणि भित्तेः संस्कारः कृतः । तेन भित्तिः दर्पण इव दृश्यते । यत्र चित्रम् अविकलं प्रतिफलितं दृश्यते । राजा उभयोः कलाकारयोः पटुतां विलोक्य पारितोषिकं दत्तवान् । भित्तिः यथा निर्मला तथैव मनः निर्मलं चेत् तत्र आदर्शपुरुषाणां चरितानि अपि प्रतिफलितानि भविष्यन्ति ।
प्रश्ना:
एकेन वाक्येन उत्तरं लिखत ।
(क) प्रथम : चित्रकरः किं कथितवान् ?
(ख) द्वितीय: चित्रकरः किं निवेदितवान् ?
(ग) द्वितीयस्य कीदृशीं कलां राजा दृष्टवान् ?
(घ) द्वितीयः चित्रकरः किं कृतवान् ?
(ङ) अत्र का नीतिशिक्षा लभ्यते ?
(च) पुरा कीदृशः नृपः आसीत् ?
(छ) चित्रसम्पादने कति वर्षाणि व्यतीतानि ?
ଉତ୍ତର :
(କ) ପ୍ରଥମଃ ଚିତ୍ରକରଃ କଥ୍ତବାନ୍ – ଅହଂ ମହାଭାରତଚିତ୍ର କରୋମି, ତଦର୍ଥ ଦଶବର୍ଷାଣି ଅପେକ୍ଷିତାନି ।
(ଖ) ଦ୍ବିତୀୟତଃ ଚିତ୍ରକର ନିବେଦିତବାନ୍ – ଅହଂ ଗୁପ୍ତ କିମପି ଚିତ୍ର ରଚୟାମି, ତଦର୍ଥମ୍ ଅନୁମତଃ ଦୀୟତେ ଚେତ୍ ସ୍ଵକଳାମ୍ ଅନ୍ତେ ଦର୍ଶୟାମି ।
(ଗ) ଦ୍ବିତୀୟ ଚିତ୍ରକରସ୍ୟ ପ୍ରଥମଚିତ୍ରସ୍ୟ ଅବିକଳଂ ରୂପଂ ରାଜା ଦୃଷ୍ଟବାନ୍ ।
(ଘ) ଦ୍ବିତୀୟ ଚିତ୍ରକରଃ ଚିତ୍ର ନ ଲିଖ୍ତବାନ୍; କେବଳଂ ଦଶବର୍ଷାଣି ଭିତ୍ତେ ସଂସ୍କାରଃ କୃତବାନ୍ ।
(ଙ) ଅତ୍ର ନୀତିଶିକ୍ଷା ଲଭ୍ୟତେ ଯତ୍ – ଭିଭିଂ ଯଥା ଚରିତାନି ଅପି ପ୍ରତିଫଳିତାନି ଭବିଷ୍ୟନ୍ତ ।
(ଚ) ପୁରା କଶ୍ଚିତ୍ ଚିତ୍ରକଳାପ୍ରିୟ ନୃପଃ ଆସୀ ।
(ଛ) ଚିତ୍ର ସମ୍ପାଦନେ ଦଶବର୍ଷାଣି ବ୍ୟତୀତାନୀ ।
ଅନୁଚ୍ଛେଦ – ୧୨
एकदा कश्चिद् वणिक् व्यापारनिमित्तम् उष्ट्रेण यात्रां कृतवान् । एवं मार्गे गमनकाले रात्रिः अभवत् । ग्रामः दूरे आसीत् । किमपि आश्रयस्थलं न प्राप्तवान् । रात्रियापनार्थं स स्वशिबिरं स्थापितवान् ।
समीपस्थे स्कम्भे उष्ट्रस्य बन्धनं कृतवान् । रात्रौ आहारं कृत्वा निद्रां गतवान् । गभीररात्रौ शीतं प्रबलमभवत् । उष्ट्रः शीतम् असहमानः स्वामिनं प्रार्थयमास – स्वामिन्, शीतम् असह्यम् । शिबिरस्य कोणे स्वमुखं स्थापयामि । कृपां करोतु भवान् । दयालुः स्वामी अनुमतिं दत्तवान् । अनन्तरं ग्रीवाप्रवेशया अनुमतिं याचितवान् । अनुमतिः प्राप्ता । ततः स्वपादप्रवेशार्थम् उष्ट्रः प्रार्थितवान् । एवं उष्ट्रः क्रमशः सकलं शरीरं तत्र प्रावेशयत् । वहिर्गमनाय स्वामिनं निर्दिष्टवान् यतः तत्र द्वयोः कृते स्थानं नासीत् । कुण्ठितं स्वामिनं विलोक्य उष्ट्रः तं पादेन ताड़यित्वा वहिष्कृतवान् । संचेतनो वणिधु चिन्तयति- आदौ एव दुर्जनः दूरे स्थापनीयः नोचेत् विपत्तिः आगमिष्यति ।
प्रश्ना:
एकेन वाक्येन उत्तरं लिखत ।
(क) गमनकाले रात्रौ वणिक् किं कृतवान् ?
(ख) उष्ट्रबन्धनानन्तरं वणिक् किं कृतवान् ?
(ग) प्रथमम् उष्ट्रः स्वामिनं किं प्रार्थितवान् ?
(घ) मुखप्रवेशानन्तरम् उष्ट्रः किं कृतवान् ?
(ङ) क्रमशः उष्ट्रः किं कृतवान् ?
(च) वणिक् केन यात्रां कृतवान् ?
(छ) कुत्र वणिक् उष्ट्रस्य बन्धनं कृतवान् ?
ଉତ୍ତର :
(କ) ଗମନକାଳେ ରାତ୍ରୈ ବଣିକ୍ ରାତ୍ରିଯାପନାର୍ଥୀ ସ୍ୱଶିବିରଂ ସ୍ଥାପିତବାନ୍ ।
(ଖ) ଉଷ୍ଟ୍ରବନ୍ଧନାନ୍ତରଂ ବଣିକ୍ ରାତ୍ରୈ ଆହାରଂ କୃତ୍ୱା ନିଦ୍ରାଗତବାନ୍ ।
(ଗ) ପ୍ରଥମମ୍ ଉଷ୍ଟ୍ରୀ ଶୀତମ୍ ଅସହମାନଃ ସ୍ଵାମିନଂ ପ୍ରାର୍ଥୟାମାସ – ସ୍ବାମିନ୍, ଶୀତମ୍ ଅସହ୍ୟମ୍, ଶିବିରସ୍ୟ କୋଣେ କୃପୟା ସ୍ଵମୁଖ୍ୟ ସ୍ଥାପନାର୍ଥମ୍ ଅନୁମତଂ ଦଦାତୁ ।
(ଘ) ମୁଖ ପ୍ରବେଶାନନ୍ତରମ୍ ଉଷ୍ଟ୍ରୀ ଗ୍ରୀବାପ୍ରବେଶାୟ ଅନୁମତି ଯାଚିତବାନ୍ ।
(ଙ) ଉଷ୍ଟ୍ର କ୍ରମଶଃ ସକଳଂ ଶରୀରଂ ଶିବିରମଧ୍ୟ ପ୍ରାବେଶୟତ୍ ।
(ଚ) ବଣିକ୍ ଉଷ୍ଟେଣ ଯାତ୍ରା କୃତବାନ୍ ।
(ଛ) ବଣିକ୍ ସ୍କମ୍ଭେ ଉଷ୍ଟ୍ରସ୍ୟ ବନ୍ଧନଂ କୃତବାନ୍ ।
ଅନୁଚ୍ଛେଦ – ୧୩
कस्मिंश्चिदधिष्ठाने देवशमी इति जनः प्रतिवसति स्म । तस्य भार्या सुतश्च आस्ताम् । तस्य गृहे नकुलशिशुः अपि आसीत् । सुतंवत्सला माता सुतेन सह नकुलम् अपि पोषयामास । एकदा सा जलकुम्भम् आदाय जलार्थं तडागं गतवती । सा गृहरक्षणार्थं देवशर्मााणम् उक्तवती । देवशर्मा निमन्त्रणम् आसाद्य सत्वरं निर्गतः । अत्रान्तरे दैववशात् कृष्णसर्पो विलान्निष्क्रान्तः । नकुलशिशुः भ्रातुः रक्षार्थं सर्पेण सह युद्धं कृत्वा तं खण्डशः कृतवान् ।
माता तड़ागान् आगत्य नकुलशिशुं रुधिरक्लिन्नमुखं विलोक्य शङ्कितचित्ता । अनेन दुरात्मना मे सुतो भक्षितः । इति विचिन्त्य कोपात् तस्योपरि तं जलकुम्भं निक्षिप्तवती । गृहाभ्यन्तरम् आगत्य सुतं सुप्तं दृष्टवती । समीपे कृष्णसर्पं खण्डशः कृतम् अवलोक्य पुत्रकल्पनकुलस्य वधशोकेन आत्माशिरो वक्षः स्थलं च ताडितवती । अतः सुष्षूच्यते अपरीक्ष्य न कर्त्तव्यम् । अपि च सहसा विदधीत न क्रियाम् ।
प्रश्ना:
एकेन वाक्येन उत्तरं लिखत ।
(क) देवशर्मणः गृहे के आसन् ?
(ख) देवशर्मणः भार्या कस्य कस्य पोषणं कृतवती ?
(ग) देवशर्मपत्नी तडागं कथं गतवती ?
(घ) नकुलशिशुः देवशर्मणः पुत्रं कथं रक्षितवान् ?
(ङ) देवशर्मभार्या नकुलशिशुं दृष्ट्वा किं कृतवती ?
(च) सा कथं शोचनां कृतवती ?
(छ) अन का नीतिशिक्षा लभ्यते ?
ଉତ୍ତର :
(କ) ଦେବଶର୍ମଶଃ ଗୃହେ ତସ୍ୟ ଭାର୍ଯ୍ୟା, ସୁତଃ ନକୁଳଶିଶୁ ଚ ଆସନ୍ ।
(ଖ) ଦେବଶର୍ମଶଃ ଭାର୍ଯ୍ୟା ସୁତେନ ସହ ନକୁଳମ୍ ଅପି ପୋଷଣଂ କୃତବତୀ ।
(ଗ) ଦେବଶର୍ମପତ୍ନୀ ତଡ଼ାଗଂ ଜଳାର୍ଥୀ ଗତବତୀ ।
(ଘ) ନକୁଳଶିଶୁ ସର୍ପଣ ସହ ଯୁଦ୍ଧ କୃତାଂ ତଂ ଖଣ୍ଡଶଃ କୃତବାନ୍ ଦେବଶର୍ମଶଃ ପୁନଃ ରକ୍ଷିତବାନ୍ ଚ ।
(ଙ) ଦେବଶର୍ମଭାର୍ଯ୍ୟା ନକୁଳଶିଶୋ ରୁଧକ୍ଲିନ୍ନମୁଖ୍ୟ ଦୃଷ୍ଟା ଶଙ୍କିତଚିତ୍ତା ଅନେନ ଦୁରାତ୍ମନା ମେ ସୁତଃ ଭକ୍ଷିତଃ ଇତି ବିଚିତ୍ୟ କୋପାତ୍ର ତସ୍ୟାପରି ତଂ ଜଳକୁମ୍ଭ ନିକ୍ଷିପ୍ତବତୀ ।
(ଚ) ଗୃହାଭ୍ୟନ୍ତରେ ସୁତଂ ସୁପ୍ତ ଦୃଷ୍ଟା ସମୀପେ କୃଷ୍ଣସପିଂ ଖଣ୍ଡଶଃ କୃତମ୍ ଅବଲୋକ୍ୟ ପୁତ୍ରକଳ୍ପ ନକୁଳସ୍ୟ ବଧଶୋକେନ ଆତ୍ମଶିରୋ ବୟଃସ୍ଥଳଂ ଚ ତାଡ଼ୟିତ୍ଵ ସା ଶୋଚନା କୃତବତୀ ।
(ଛ) ଅତ୍ର ନୀତିଶିକ୍ଷା ଲଭ୍ୟତେ ଯତ୍ – ‘ଅପରୀକ୍ଷ୍ୟ ନ କର୍ତ୍ତବ୍ୟମ୍ ‘ , ଅପିଚ ସହସା ବିଦଧୀତ ନ କ୍ରିୟାମ୍ ।
ଅନୁଚ୍ଛେଦ – ୧୪
सर्वे मानवाः न समाऩाः । केचन कुटिला : दुर्जनाः । केचन सरलाः सज्जनाः । मानवस्य यथार्थदृष्टेः अभावेन सत्प्रकृतयः तथा न प्रतीयन्ते । दुर्जनाः अपि मध्यारूपम् अभिनयन्तः सरलस्वभावाः विभासन्ते । तस्मात् आपातप्रतीयमानं रूपं न सहसा विश्वसनीयम् । कस्यापि विषये विना विवेकं मतं न पोषणीयम् । एकदा कश्चित् साधुः भिक्षासंग्रहार्थं कमपि ग्रामं गच्छति स्म । कस्मिंश्चिद् गोचरे भ्रमतः तस्य दृष्टिपथं कोऽपि मेषः आगतः ।
विचित्रवेषं साधुं विलोक्य भृशं कुपितः स मस्तकम् अवनमयन् प्रचण्डघाताय कतिचित्पदानि पश्चाद् गतवान् । साधुः तस्य ईदृशं व्यवहारं दृष्ट्वा व्यचारयत् – अहो साधुस्वभावः शिष्टश्च अयं प्राणी । पुण्यनिधिं मां दृष्ट्वा एव गुणज्ञः अयम् अभिवादनाय स्वमस्तकम् अवनमयति । तस्मिन्नेव क्षणे तं प्रचण्डम् अभ्यसरत् मेषः । एकेनैव मेषमुण्डाघातेन साधुः भूमौ अलुठत् । अपात्रेषु उञ्चमतपोषणं दुर्गतिकारणमेव ।
प्रश्ना:
एकेन वाक्येन उत्तरं दत्त ।
( क ) मानवाः कीदृशाः सन्ति ?
(ख) सत्प्रकृतयः तथा कथं न प्रतीयन्ते ?
(ग) कीदृशं रूपं सहसा न विश्वसनीयम् ?
(घ) मेषः साधोः दृष्टिपथं कथम् आगतः ?
(ङ) साधुं विलोक्य मेषः कीदृशीं प्रतिक्रियां प्रदर्शितवान् ?
(च) के मिथ्यारूपम् अभिनयन्ति ?
(छ) किं रूपं सहसा न विश्वसनीयम् ?
ଉତ୍ତର :
(କ) ସର୍ବେ ମାନବାଃ ନ ସମାନଃ, କେଚନ କୁଟିଳା ଦୁର୍ଜନାଃ କେଚନ ସରଳା ସଜନାଃ ଚ ସନ୍ତି ।
(ଖ) ମାନବସ୍ୟ ଯଥାର୍ଥ ଦୃଷ୍ଟି ଅଭାବେନ ସତ୍ତ୍ଵେ ପ୍ରକୃତୟଃ ତଥା ନ ପ୍ରତୀୟନ୍ତେ ।
(ଗ) ଆପତ ପ୍ରତୀୟମାନଂ ରୂପଂ ସହସା ନ ବିଶ୍ବସନୀୟମ୍ ।
(ଘ) କଟିଂଶ୍ଚିତ୍ ଗୋଚରେ ଭ୍ରମତଃ ସାଧୋ ଦୃଷ୍ଟିପଥ୍ୟ କୋଽପି ମେଷ ଆଗତଃ ।
(ଙ) ସାଧୁ ବିଲୋକ୍ୟ ଭୃଶଂ କୁପିତଃ ସ ମେଷ ମସ୍ତକମ୍ ଅବନମୟନ୍ ପ୍ରଚଣ୍ଡଘାତାୟ କତିଚିତ୍ ପଦାନି ପଶ୍ଚାତ୍ ଗତବାନ୍ ।
(ଚ) ଦୁର୍ଜନା ମିଥ୍ୟାରୂପମ୍ ଅଭିନୟନ୍ତ ।
(ଛ) ଆପାତପ୍ରତୀୟମାନଂ ରୂପଂ ସହସା ନ ବିଶ୍ଵସନୀୟମ୍ ।
ଅନୁଚ୍ଛେଦ – ୧୫
कस्मिंश्चिद् राज्ये महेन्द्रो नाम भूपतिः आसीत् । स न्यायशीलः उदारः च । एकदा स मन्त्रिभिः सह राज्यस्य परिक्रमां करोति स्म । तत्र स दृष्टवान् यत् कश्चिद् वृद्धः माली उपवने क्षुद्रम् आम्रतरुं रोपयति । राजा तद् उपवनं गतवान् । तं मालिनं पृष्टवान् – किं त्वम् अत्र सेवकः अथवा स्वामी । माली उक्तवान् – नाहं कुत्र सेवारतः । इदम् उपवनं मम पूर्वजानां पितृपितामहानाम् । राजा अवदत् – किं त्वं चिन्तयसि, अस्य वृक्षस्य फलभक्षणस्य त्वं जीविष्यसि ?
आम्रवृक्षः महता कालेन फलम् ददाति इति प्रसिद्धम् । वृद्धमाली नरपतेः वचनं श्रुत्वा अकथयत् – अहं येभ्यः वृक्षेभ्यः फलानि आस्वादयामि ते वृक्षाः न मया रोपिताः । अन्यरोपितवृक्षाणां फलानि अहं भक्षयामि । अहमपि अन्यस्य हेतोः फलवृक्षं रोपयामि । फलवृक्षरोपणे परार्थता हि अस्माकं चिराचरिता नीति: । न कोऽपि स्वयं स्वार्थाीय वृक्षं रोपयति । नरपतिः मालिनः श्लाध्येन विचारेण सन्तुष्टः तं पुरस्कारैः संवर्धितवान् ।
प्रश्नाः
एकेन वाक्येन उत्तरं लिखत ।
(क) भूपतिः कीदृशः आसीत् ?
(ख) राज्यभ्रमणकाले राजा किं दृष्टवान् ?
(ग) राजा मालिनं किं पृष्टवान् ?
(घ) माली राजानं किम् उक्तवान् ?
(ङ) आम्रवृक्षस्य फलदानविषये किं प्रसिद्धम् ?
(च) अत्र का नीतिशिक्षा लभ्यते ?
(छ) भूपतेः नाम किम् ?
ଉତ୍ତର :
(କ) ଭୂପତିଃ ନ୍ୟାୟଶୀଳ ଉଦାରଃ ଚ ଆସୀତ୍ ।
(ଖ) ରାଜ୍ୟଭ୍ରମଣକାଳେ ରାଜା ଦୃଷ୍ଟବାନ୍ ଯତ୍ କଶ୍ଚିତ୍ ବୃଦ୍ଧ ମାଳୀ ଉପବନେ କ୍ଷୁଦ୍ରମ୍ ଆମ୍ରତରୁ ରୋପୟତି ।
(ଗ) ରାଜା ମାଳିନଂ ପୃଷ୍ଟବାନ୍— କିଂ ତ୍ୱମ୍ ଅତ୍ର ସେବକଃ ଅଥବା ସ୍ଵାମୀ ।
(ଘ) ମାଳୀ ରାଜାନମ୍ ଉକ୍ତବାନ୍— ନାହଂ କୁତ୍ର ସେବାରତଃ । ଇଦମ୍ ଉପବନଂ ମମ ପୂର୍ବଜାନାଂ ପିତୃପିତାମହାନାମ୍ ।
(ଙ) ଆମ୍ରବୃକ୍ଷ ମହତା କାଳେନ ଫଳଂ ଦଦାତି ଇତି ପ୍ରସିଦ୍ଧମ୍ ।
(ଚ) ଅତ୍ର ନୀତିଶିକ୍ଷା ଲଭ୍ୟତେ ଯତ୍ – ‘ଫଳବୃକ୍ଷରୋପଣେ ପରାର୍ଥତା ହି ଅସ୍ମାକଂ ଚିରାଚରିତା ନୀତିଃ ।
(ଛ) ଭୂପତଃ ନାମ ମହେନ୍ଦ୍ର ଆସୀତ୍ ।
ଅନୁଚ୍ଛେଦ – ୧୬
कस्मिंश्चिद् वने सिंहः व्याघ्रः च आस्ताम् । सिंहः क्रमशः वृद्धः संजातः । व्याघ्रः कनीयान् सवलः च आसीत् । वृद्धात् अपि सिंहात् व्याघ्रः बिभेति । सिंहो वृद्धोपि व्याघ्रापेक्षया बलीयान् । अतः व्याघ्रः सिंहेन सह मैत्रीं कृत्वा अतिष्ठत् । कदाचित् वनमध्ये ताभ्यां किञ्चिदपि भोजनं नासादितम् । उभौ वुभुक्षया पीडितौ । सौभाग्यात् एकदा समक्षं चरन्तं क्षुद्रं हरिणं तौ दृष्टबन्तौ । व्याघ्र उक्तवान् अंहं द्रुतचलने समर्थः । अतः अहं हरिणं धरामि । भबान् नालीबन्धोपरि सावधानं तिष्ठतु । येन तेन मार्गेण हरिणः द्रुतधावनं कृत्वा आत्मानं न गोपयेत् । सिंहः तथा कृतवान् । व्याघ्रः हरिणम् अभ्यपतत् तं च धृतवान् ।
सिंहःव्याघ्रः च उभौ क्षुधार्तौ । आहारास्तु स्वल्पः । उभयोः तद्भक्षणे लोभः जातः । व्याघ्रः उक्तवान्- स्वयम् अहम् हरिणं धृतवान् । अतः स ममैव भक्षणीयः । सिंहः उक्तवान् – अहं पशुपतिः वनराजः । अतः स मम आहारः । त्वं चलनसमर्थः, अतः धावित्वा अन्य जन्तुं गृहाण । एवं द्वयोर्मध्ये विवादः जातः । आहारं त्वक्त्वा परस्परम् आक्रमणं कृतवन्तौ । नखैः दशनैः च परस्पराघातेन क्षतौ रक्ताक्तौ उभौ निश्चलौ संजातौ । एकः शृगालः एतद् दृश्यं गुप्तं पश्यति स्म । स वहिरागत्य हरिणं स्वदशनमध्ये स्थापयित्वा द्रुतं पलायितवान् ।
अतः सुष्षूच्यते दृयोर्विवादे तृतीयस्य लाभः । यत्र बन्धुता सहयोगश्च तत्र कदापि भेदभावः विवादः वा न स्पृहणीयः ।
प्रश्ना:
एकेन वाक्येन उत्तरं लिखत ।
(क) व्याघ्रः वलवान् अपि कथं वृद्धात् सिंहात् बिभेति ?
(ख) व्याघ्रः किं कृत्वा अतिष्ठत् ?
(ग) सिंहः कथं नालीबन्धोपरि तिष्ठेत् ?
(घ) व्याघ्रः किं कृत्वा हरिणं धृतवान् ?
(ङ) आहारं स्वायत्तं कृत्वा व्याघ्रः किम् उक्तवान् ?
(च) सिंह: व्याघ्रं किम् उक्तवान् ?
(छ) उभौ कथं निश्चलौ जातौ ?
ଉତ୍ତର :
(କ) ସିଂହ ବୃଦ୍ଧାଽପି ବ୍ୟାଘ୍ରାପେକ୍ଷୟା ବଳୀୟାନ୍, ଅତଃ ବ୍ୟାଘ୍ର ବଳବାନ୍ ଅପି ବୃଦ୍ଧସିଂହାତ୍ ବିଭେତି ।
(ଖ) ବ୍ୟାଘ୍ର ସିଂହନ ସହ ମୈତ୍ରୀ କୃତ୍ଵା ଅତିଷ୍ଠତ୍ ।
(ଗ) ଯେନ ତେନ ମାର୍ଗଣ ହରିତଃ ଦ୍ରୁତଧାବିତ୍ରା ଆତ୍ମାନଂ ନ ଗୋପୟେତ୍ ଅତଃ, ସିଂହଃ ସାବଧାନଂ ନାଳୀବନ୍ଦୋପରି
(ଘ) ବ୍ୟାଘ୍ର ହରିଣମ୍ ଅଭ୍ୟପତତ୍ ତଂ ଚ ଧୃତବାନ୍ ।
(ଙ) ଆହାରଂ ସ୍ଵାୟତଂ କୃତ୍ୱା ବ୍ୟାଘ୍ର ଉକ୍ତବାନ୍ – ସ୍ବୟମ୍ ଅହଂ ହରିଣଂ ଧୃତବାନ୍ । ଅତଃ ସ ମମିବ ଭକ୍ଷଣୀୟ ।
(ଚ) ସିଂହଃ ବ୍ୟାଘ୍ରମ୍ ଉକ୍ତବାନ୍– ଅହଂ ପଶୁପତିଃ ବନରାଜଃ, ଅତଃ ସ ସମ ଆହାରଃ । ତଂ ଚଳନସମର୍ଥ, ଅତଃ ଧାବିତ୍ଵା ଅନ୍ୟ ଜନ୍ତୁ ଗୃହାଣ ।
(ଛ) ପରସ୍ପରମ୍ ଆକ୍ରମଣଂ କୃତବରୌ ତୌ ନଖି ଦଶତିଃ ଚ ପରସ୍ପରାଘାତନେ କ୍ଷତୌ ରକ୍ତାଭୌ ଉଭୌ ନିଶ୍ଚନୌ ।